Thursday, June 16, 2016

श्रीकृष्णद्वादशनामस्तोत्रं

प्रथमं तु हरिं विद्यात् द्वितीयं केशवं तथा। तृतीयं पद्मनाभं तु चतुर्थं वामनं तथा॥१॥ पञ्चमं वेदगर्भं च षष्ठं तु मधुसूदनं। सप्तमं वासुदेवं च वराहं चाष्टमं तथा॥२॥ नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम्। कृष्णमेकादशं प्रोक्तं द्वादशं श्रीधरं तथा॥३॥ एतद्द्वादशनामानि मया प्रोक्तानि फाल्गुन। कालत्रये पठेद्यस्तु तस्य पुण्यफलं शृणु॥४॥ चान्द्रायणसहस्रस्य कन्यादानशतस्य च। अश्वमेधसहस्रस्य फलमाप्नोति मानवः॥५॥ ॥इति श्रीकृष्णद्वादशनामस्तोत्रं सम्पूर्णम्‌॥


रोग निवारिणी स्तोत्रनी

अच्युतानन्त गोविन्द नामोच्चारण भेषजात् |नश्यन्ति सकल रोगः सत्यं सत्यं वदाम्यहम् ||
A mantra for good health... Look at a glass of water, chant it 21 times & drink it. It cures many disorders.
अच्युतानन्तगोविन्द विष्णो नारायणामृत |
रोगान्मे नाशयाशेषान आशु-धन्वन्तरे हरे ||

अच्युतानन्त 
गोविन्द विष्णो धन्वन्तरे हरे | वासुदेवाखिलानस्य रोगान् नाशाय नाशाय ||

सोमनाथं वैद्यनाथं धन्वन्तरिमथाश्विनौ |
एतान् संस्मरतः प्रातः व्याधिः स्पर्श न विद्यते ||